शुद्धिकरण मंत्र:-
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं सः बाह्य आभ्यन्तरः शुचिः ॥
अतिनील घनश्यामं नलिनायतलोचनम् ।
स्मरामि पुण्डरीकाक्षं तेन स्नातु भवाम्यहम् ॥
मंगल कामना :-
मगंलं भगवान विष्णुः मगंलं गरुडध्वजः।
मगंलं पुण्डरीकाक्षं मंगलायतनो हरिः॥
गुरु को नमस्कार :-
गुरु ब्रह्मा गुरु विष्णु गुरू देवो महेश्वरः ।
गुरु साक्षात परब्रह्मा तस्मै श्रीगुरवे नमः ॥
ॐ अखण्ड मंगलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥
आचमन :-
ॐ केशवाय नम: । ॐ नारायणाय नम: । ॐ माधवाय नम: ।
आचमन के बाद ॐ ह्रषीकेशाय नम:, ॐ गोविन्दाय नम: बोलकर ब्रह्मतीर्थ (अंगुष्ठ का मूल भाग) से दो बार होंठ पोंछते हुए हस्त प्रक्षालन करें (हाथ धो लें)। उपरोक्त विधि ना कर सकने की स्थिति में केवल दाहिने कान के स्पर्श मात्र से ही आचमन की विधि की पूर्ण मानी जाती है।
भू शुद्धि :-
ॐ पृथ्वी इति मंत्रस्य मेरूपृष्ठ ॠषिः सुतलं छन्दः कूर्मो देवता आसन पवित्र - करणे विनियोगः ।
आसन शुद्धि :-
ऊँ पृथ्वी त्वया धृता लोका देवि त्वं विष्णुना धृता,
त्वं च धारय माम् देवि पवित्रं कुरु चासनम् ॥
दीप पूजन :-
वहिनदेवाय दीपपात्राय नमः भो दीप ।
देवस्वरूपम् त्वम् कर्मसाक्षी हि अविघ्नकृत यावत् पूजां समाप्तिः तावत् त्वं सुस्थिरो भव ॥
दिक् बंधन :-
ॐ प्राच्यै नमः ( पूर्व ), पूर्वे रक्षतु वाराह ।
ॐ ऐं आग्नयै नमः, ( दक्षिणी – पूर्व ), आग्नेय्यां रक्षतु गरूडध्वजः ।
ॐ दक्षिणायै नमः, ( दक्षिण ), दक्षिणे रक्षतु पदम् नाभः ।
ॐ नैऋत्यै नमः, ( दक्षिण – पश्चिम ), नैऋत्यां रक्षतु मघुसूदनः ।
ॐ प्रतीच्यै नमः, ( पश्चिम ), पश्चिमे रक्षतु गोविन्दः ।
ॐ क्लीं वायव्यै नमः, ( उत्तर – पश्चिम ), वायव्यां रक्षतु जनार्दनः ।
ॐ उदीच्यै नमः, ( उत्तर ) , उत्तरे रक्षतु श्रीपतिः ।
ॐ ईशान्यै नमः, ( उत्तर - पूर्व ), ईशान्ये रक्षतु महेशवरः ।
ॐ उर्ध्वायै नमः, (ऊपर), उर्ध्व रक्षतु घाताः।
ॐ भूम्यै नमः, ( नीचे), भूम्यै रक्षतु अनन्तः।
शिखा बन्धन :-
ॐ चिद् रूपिणि महामाये दिव्यतेजः समन्विते ।
तिष्ठ देवि शिखामध्ये तेजो वृद्धिं कुरुष्व मे ॥
भूत प्रेत शुद्धि :-
ॐ अपसर्पन्तु ते भूता: ये भूता: भूमि संस्थिता:।
ये भूता: विघ्न कर्तारस्ते नश्यन्तु शिव आज्ञया॥
अपक्रामन्तु भूतानि पिशाचा: सर्वतो दिशम सर्वेषां अविरोधेन बह्म कर्म समारभ्भे॥
स्वस्ति वाचन :
ॐ स्वस्तिः नः इन्द्रो वृद्धश्रवाः। स्वस्तिः नः पूषा विश्ववेदाः।
स्वस्तिः नः तार्क्ष्यो अरिष्टनेमिः। स्वस्तिः नो बृहस्पतिर्दधातु ॥
ॐ पयः पृथिव्याम् पयः ओषधीषु पयो दिवि अन्तरिक्षे पयोधाः पयस्वतीः प्रदिशः सन्तु महि अयम् ।
ॐ विष्णो रराटम् असि विष्णोः शनप्त्रे स्थो विष्णोः, स्यूः असि विष्णो र्ध्रुव असि, वैष्णवमसि विष्णवे त्वा ।
ॐ अग्नि देवता, वातो देवता, सूर्यो देवता, चन्द्रमा देवता, वसवो देवता, रुद्रा देवता, आदित्यो देवता, मरुतो देवता, विश्वेदेवा देवता, बृहस्पतिः देवता, इर्न्द्रो देवता, वरुणो देवता ।
ॐ द् यौः शान्तिः। अन्तरिक्ष (गुगँ) शान्तिः। पृथ्वी शान्तिः। आपः शान्तिः। औषधयः शान्तिः। वनस्पतयः शान्तिः। र्विश्वेदेवाः शान्तिः। र्ब्रह्म शान्तिः। सर्वम (गुगँ) शान्तिः। शान्तिरेव शान्तिः। सा मा शान्तिरेधि।
ॐ यतो यतः समीहसे ततो न अभयं कुरु।
शं नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः॥ सुशान्तिर्भवतु।
ॐ विश्वानि देव, सवितुः दुरितानि । परासुव। यद भद्रं तत् न आसुव।
ॐ शान्तिः, शान्तिः, शान्तिः॥ ॐ एतत् शान्तिः भवतु।
श्रीमन् महागणाधिपतये नमः । श्रीलक्ष्मीनारायणाभ्यां नमः ।
उमामहेश्वराभ्यां नमः । वाणीहिरण्यगर्भाभ्यां नमः ।
शचीपुरन्दराभ्यां नमः । मातृ पितृ चरण कमलेभ्यो नमः ।
इष्ट देवताभ्यो नमः । कुलदेवताभ्यो नमः ।
ग्रामदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः ।
स्थान देवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः ।
सर्वेभ्यो ब्राह्मणेभ्यो नमः । सर्वेभ्यो ऋषिभ्यो नमः ।
सर्वेभ्यो गुरूभ्यो नमः । सर्वेभ्यो पितृभ्यो नमः ।
ॐ सिद्धि बुद्धि सहिताय श्रीमन् महागणाधिपतये नमः ।
ॐ सुमुखश्च एकदंतश्च कपिलो गजकर्णकः । लंबोदरश्च विकटो विघ्ननाशो विनायकः ।
धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजाननः । द्वादश एैतानि नामानि यः पठेत् श्रुणुयादपि ।
विद्यांभे विवाहे च प्रवेशे निर्गमे तथा । संग्रामे संकटे चैव विघ्नः तस्य न जायते ।
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्न उपशान्तये ।
अभीप्सितार्थ सिद्ध्यर्थम् पूजितो यः सुरासुरैः । सर्वविघ्न हरस्तस्मै गणाधिपतये नमः ।
वक्रतुण्ड महाकाय कोटि सूर्यसमप्रभः । अर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥
सर्व मंगलमांगल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यंबके गौरि नारायणि नमोस्तुऽते ।
सर्वदा सर्वकार्येषु न अस्ति तेषाम अमंगलम् । येषां ह्रदिस्थो भगवान् मंगलायतनम् हरिः ।
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं। विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिः ध्यानगम्यं । वन्दे विष्णुं भवभयहरं सर्व लोक एक नाथम् ॥
तदेवं लग्नं सुदिनं तदेव, ताराबलं चंद्रबलं तदेव । विद्याबलं दैवबलं तदेव, लक्ष्मीपते ते अऽघ्रियुगं स्मरामि ।
लाभस्तेषाम् जयस्तेषाम् कुतस्तेषां पराजयः ।येषाम् इन्दीरवश्यामो ह्रदयस्थो जनार्दनः ।
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीः विजयो भूतिः ध्रुवा नीतिः मतिः मम ।
सर्वेषु आरम्भ कार्येषु त्रयः त्रिभुवनेश्वराः ।देवा दिशन्तु नः सिद्धिं ब्रह्म ईशान जनार्दनाः ।
विश्वेशं माधवं ढुण्ढिं दण्डपाणिं च भैरवम् ।वन्देकाशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥
ॐ गं गणपतये नमः।
दुर्गा ध्यान :-
ॐ विद्युत विध्युद्धाम दाम समप्रभां मृगपति स्कन्ध स्थितां भीषणाम्।
कन्याभिः करवाल खेट विलसत् हस्ताभिः आसेविताम्।
हस्तैः चक्र गदा असि खेट विशिखान् चापं गुणं तर्जनीम्।
विभ्राणां अनल आत्मिकां शिशिधरां दुर्गां त्रिनेत्रां भजे॥
हनुमान जी का ध्यान :-
अतुलित बलधामं हेमशैलाभ देहं।
दनुज वन कृशानुं, ज्ञानिनां अग्रगण्यं।
सकल गुण निधानं वानरानामधीशं।
रघुपति प्रिय भक्तं वातजातं नमामि॥
शिव जी का ध्यान :-
ध्यायेत् नित्यं महेशं रजतगिरिनिभं चारू चंद्रां वन्तसम्।
रत्नाकल्प उज्जावलगं परशु मृग वर अभीति हस्तं प्रसन्नम॥
पद्मासीनं समन्तात् स्तुतं अमरगणैः र्व्याघ्रं कृत्तिं वसानं।
विश्व आद्यं विश्व वन्द्यं निखिल भयहरं पंञ्चवक्त्रं त्रिनेत्रम्॥
ॐ प्रणवं कामदं विधा लज्जाबीजं च सिद्धिदम् ।
बटुकां इति विज्ञेयं महापातक नाशनम् ॥ १ ॥
उद्धद् भास्कर सन्निभं त्रिनयनं रक्तांगरागस्रजं ।
स्मेरास्यं वरदं कपालं अभयं शूलं दधानं करैः।
नीलग्रीवं उदारं कौस्तुभधरं शीतांशु चूडोज्ज्वलं।
बंधूक अरूण वाससं भयहरं देवं सदा भावयेत् ॥ २ ॥
नमो भैरव रूपाय भैरवाय नमो नमः।
नमो भवस्वरूपाय जगत् आद्य नमो नमः ॥३॥
वन्दे बालं स्फटिक-सदृशम् कुडंलोद्भासिताङंग्।
दिव्याकल्पैः नवमणिमयैः किंकिणी नुपुराढ्यैः॥
दीप्ताकारं विशद वदनं सुप्रसन्नं त्रिनेत्रम्।
हस्ताग्राभ्यां बटुक सदृशं शूलदण्डोदधानम्॥૪॥
करकलितकपालः कुंडलीदंडपाणि।
स्तरूणतिमिरनीलो ब्याल यज्ञोपवीती।
क्रतुसमय सपर्याविध्नविच्छेदहेतू जयति बटुकनाथः सिद्धिदः साधकानाम्॥५॥
भैरव देव का आवाहन :-
आयाहि भगवन् रुद्रो भैरवः भैरवीपते।
प्रसन्नोभव देवेश नमस्तुभ्यं कृपा निधे॥
आवाहनार्थे पुष्पं समर्पयामि, ॐ भैरवाय नमः।
आसान :-
भूतेश्वर गणाध्यक्ष भगवन् मुण्डमालिने।
आसन दिव्यं ईशान दास्ये अहं तुभ्यं ईश्वरं॥
आसनार्थे पुष्पं समर्पयामि, ॐ भैरवाय नमः।
पाद्य :-
रुद्रो बटुक भूतेशो भूत नाथः प्रजापतिः
पाद्यं गृहाणम् वीर बंधु दयाकरः।
पाद्धार्थे जलं समर्पयामि, ॐ भैरवाय नमः।
अध्र्य :-
कालीशः कालिका कान्ताः कलिका आनंद वर्धनः
अर्घ्यम ग्रहाण देवेश साम्ब सर्वार्थ दायक।
अध्र्य जलं समर्पयामि, ॐ भैरवाय नमः।
आचमन :-
घोरनादो घनश्यामो घनस्वामी घनांतक।
ग्रहाण आचमनीयं च पवित्रोदक कल्पिताम् ।
आचमनार्थे जलं समर्पयामि, ॐ भैरवाय नमः।
शुद्धोदक स्नान:-
गङ्गा, गोदावरी, रेवा, पयोष्णी, यमुना तथा, सरस्वती,
आदि तीर्थानि स्नानर्थ प्रतिगृह्यताम्।
स्नानर्थे शुद्धोदक जलं समर्पयामि, ॐ भैरवाय नमः।
शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि, ॐ भैरवाय नमः।
वस्त्रं एवम् उपवस्त्रं :-
वस्त्राणि पट्टकूलानि विचित्राणि नवानि च।
मयानीतानि देवेश प्रसन्नोभव भैरव।
वस्त्रं, उपवस्त्रं च यज्ञोपवीतं समर्पयामि, ॐ भैरवाय नमः।
वस्त्रान्ते जलं समर्पयामि, ॐ भैरवाय नमः।
पुष्पमाला :-
माल्यादीनि सुगन्धीनि मालत्यादीनि वे प्रभो।
मया आनीतानि पूजार्थ पुष्पमालां प्रतिग्रह्यताम् ।
पुष्पमालां समर्पयामि, ॐ भैरवाय नमः।
धूप :-
वनस्पति रसोद्भूतो गन्धाढ्यो गन्ध उत्तमः।
आघ्रेयः सर्व देवानां धूपोऽयं प्रतिगृह्यताम् ।
धूपं अघ्रापयामि, ॐ भैरवाय नमः।
हस्तप्रक्षालनं करोमि,ॐ भैरवाय नमः।
दीपक :-
साज्यं चं वर्तिसंयुक्तं वह्निना योजितं मया।
दीपं गृहाण देवेश त्रैलोक्य तिमिरापहम् ॥
दीपं दर्शयामि, ॐ भैरवाय नमः।
हस्तप्रक्षालनं करोमि,ॐ भैरवाय नमः।
नैवेद्य :-
अपू पूपानि च पक्वानि गण्डका वटकानी च।
पायसं सूपमन्नं च नैवेद्यं प्रतिगृह्यताम् ॥
नैवेद्यं निवेदयामि, ॐ भैरवाय नमः।
नैवेद्यान्ते आचमनीयं जलं समर्पयामि, ॐ भैरवाय नमः।
ताम्बूल :-
पुंगीफलं महत् दिव्यं नागवल्लीदलैः युतम्।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ताम्बूलं समर्पयामि, ॐ भैरवाय नमः।
पुष्पांजलि :-
देवो दैत्यश्वरो वीरो वोरवंधो दिवाकरः।
पुष्पांजलि गृहाणेश भूतेश्वर नमोस्तुते ।
पुष्पांजलिं समर्पयामि, ॐ भैरवाय नमः।
प्रणाम :-
पार्थिवः पार्थसम्पूज्य पार्थदः प्रणतः प्रभु।
प्रथ्वीशः च प्रथातुन्द्रः धरणी नायको नमः।
प्रणामम् करोमि, ॐ भैरवाय नमः।
देवी पार्वती उवाच :-
देव देव महादेव संसार प्रियकारक । पंजरं बटुकस्य कथनीयं मम प्रभो ॥ १ ॥
श्री शिव उवाच :-
पुर्व भस्मासुर त्रासाद् भयविह्वलतां स्वयम्। पठनादेव मे प्राणा रक्षिताः परमेश्वरि॥२॥
सर्वदुष्ट विनाशाय सर्वरोग निवारणम्। दुःख शांतिकरं देवी ! हि अल्पमृत्यु भयापहम ॥३॥
राज्ञां वश्यकरं चैव त्रैलोक्य विजयप्रदम्। सर्वलोकेषु पूज्यश्च लक्ष्मीस्तस्य गृहे स्थिरा ॥૪॥
अनुष्ठानं कृतं देवी पूजनं च दिने दिने। विना पंजरपाठेन तत्सर्वं निष्फलं भवेत् ॥५॥
विनियोगः
ॐ अस्य श्री बटुक भैरव पंजर कवच मंत्रस्य कालाग्नि रूद्रः ऋषि, अनुष्टुप् छन्दः,
ॐ बटुक भैरवो देवता,ह्नां बीजं, ॐ भैरवी वल्लभा शक्तिः, ॐ दण्डपाणये नमः कीलकम्,
मम सकल कामना सिद्धि अर्थे पाठे विनयोगः।
ॐ ह्रां प्राच्यां डमरू हस्तो रक्त वणौ महाबलः। प्रत्यक्षम् अहम् ईशान बटुकाय नमो नमः ॥६॥
ॐ ह्रीं दंडधारी दक्षिणे च पश्चिमे खड्ग धारिणे। ॐ ह्रूं घंटावादी मूर्तिः उत्तरस्यां दिशि तथा ॥७॥
ॐ ह्रैं अग्नि रुपो हि आग्नेय्यां नैरॄत्याम् च दिगम्बरः। ॐ ह्रौं सर्वभूतस्थो वायव्ये भूतानां हितकारकः ॥८॥
ॐ ह्रः च अष्ट सिद्धीश्च ईशाने सर्वसिद्धिकरः परः। प्रत्यक्षम् अहम् ईशान बटुकाय नमो नमः ॥९॥
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रः स्वाहा ऊध्र्वं खेचरिणंन्यसेत्। रुद्ररूप तु पाताले बटुकाय नमो नमः॥१०॥
ॐ ह्रीं बटुकाय मूध्र्नि ललाटे भीमरूपिणम्। आपत् उद्धरणं नेत्रे मुखे च बटुकं न्यसेत् ॥११॥
कुरु कुरु सर्वसिद्धिः देहे गेहे व्यवस्थितः। बटुकाय ह्रीं सर्वदेहे विश्वश्य सर्वतो दिशि ॥१२॥
आपत् उद्धारकः पातु हि आपदतलमस्तकम्। हसक्षमलवरयूं पातु पूर्वे दंड हस्तः तु दक्षिणे ॥१३॥
हसक्षमलवरयूं नैॠात्य हसक्षमलवरयूं पश्चिमेअवतु। सर्वभूतस्थो वायव्ये हसक्षमलवरयूं घंटावादिन उत्तरे॥ १૪॥
हंसः सोऽहं तु ईशाने च अष्टसिद्धि करः परः। शं क्षेत्रपाल उध्र्वे तु पाताले शिवसन्निभः॥१५॥
एवं दश दिशो रक्षेद् बटुकाय नमोनमः। इति ते कथित ह्रीं श्रीं क्लीं ऐं सदाऽवतु ॥१६॥
ॐ फ्रें हुँ फट् च सर्वत्र त्रिलोक्ये विजयी भवेत् । लक्ष्मीं ऐं श्रीं लं पृथिव्यां च आकारो हं ममाऽवतु ॥१७॥
स्त्रौं प्रौं ज्रौं ऊँ यं वायव्यं रं रं रं तेजो रूपिणम्। ॐ कं खं गं घं ङं बटुक चं छं जं झं ञं कपालिनम् ॥१८॥
टं ठं डं ढं णं क्षेत्रेशं तं थं दं धं नं उमाप्रियम्। पं फं बं भं मं ममरक्ष यं रं लं भैरव उत्तमम् ॥१९॥
वं शं षं सं आदिनाथम् लं क्षं वै क्षेत्रपालकम्। एवं पंजरम् आख्यातं सर्वसिद्धिकरं भवेत्॥२०॥
दुःख दारिद्रय शमनम् रक्षक सर्वतो दीशः। अवश्यं सर्वतो वश्यं सर्वबीजैश्च सम्पुटम् ॥२१॥
सर्वरोगहरं दिव्यं सर्वत्र सुखम् आप्नुयात् । एवं रहस्यं आख्यातं देवानाम अपि दुर्लभम् ॥२२॥
वज्र पंजरनाम इदं यः श्रृणोति वरानने। आयुः आरोग्यम् ऐश्वर्यं कीर्तिलाभः सुखं जपः ॥२३॥
लक्ष्मी मनोरमा बुद्धिः तेषां गेहे व्यवस्थिता। सुशिलाय सुदांताय गुरु भक्तिपराय च॥२૪॥
तस्य शीघ्रम च दातव्यं अन्यथा न कदाचन। गोपनीयं प्रयत्नेन सर्वगोप्यं अयं भवेत् ॥२५॥
यस्मै कस्मै न दातव्यं न दातव्यं कदाचन। राज्यं देयं शिरो देयं न देयं भैरावाक्षरम् ॥२६॥
एककालं द्विकालं वा त्रिकालं पठेत् नरः सर्वपाप विनिर्मुक्तो शिवेन सह मोदते ॥२७॥
ॐ भैरवाय नमः।
ॐ श्री शक्ति रहस्ये श्रीबटुक भैरव पंजर कवचम् ॐ ।
ॐ भैरवाय नमः।
ॐ भूतनाथाय नमः।
ॐ भूतात्मने नमः।
ॐ भूतभावनाय नमः।
ॐ क्षेत्रज्ञाय नमः।
ॐ क्षेत्रपालाय नमः।
ॐ क्षेत्रदाय नमः।
ॐ क्षत्रियाय नमः।
ॐ विराजे नमः।
ॐ श्मशानवासिने नमः।
ॐ मांसाशिने नमः।
ॐ खर्पराशिने नमः।
ॐ स्मरान्तकाय नमः।
ॐ रक्तपाय नमः।
ॐ पानपाय नमः।
ॐ सिद्धाय नमः।
ॐ सिद्धिदाय नमः।
ॐ सिद्धिसेविताय नमः।
ॐ कङ्कालाय नमः।
ॐ कालशमनाय नमः।
ॐ कलाकाष्ठातनवे नमः।
ॐ कवये नमः।
ॐ त्रिनेत्राय नमः।
ॐ बहुनेत्राय नमः।
ॐ पिङ्गललोचनाय नमः।
ॐ शूलपाणये नमः।
ॐ खड्गपाणये नमः।
ॐ कङ्कालिने नमः।
ॐ धूम्रलोचनाय नमः।
ॐ अभीरवे नमः।
ॐ भैरवीनाथाय नमः।
ॐ भूतपाय नमः।
ॐ योगिनीपतये नमः।
ॐ धनदाय नमः।
ॐ धनहारिणे नमः।
ॐ धनवते नमः।
ॐ प्रतिभानवते नमः।
ॐ नागहाराय नमः।
ॐ नागकेशाय नमः।
ॐ व्योमकेशाय नमः।
ॐ कपालभृते नमः।
ॐ कालाय नमः।
ॐ कपालमालिने नमः।
ॐ कमनीयाय नमः।
ॐ कलानिधये नमः।
ॐ त्रिलोचनाय नमः।
ॐ ज्वलन्नेत्राय नमः।
ॐ त्रिशिखिने नमः।
ॐ त्रिलोकपाय नमः।
ॐ त्रिनेत्रतनयाय नमः।
ॐ डिम्भाय नमः।
ॐ शान्ताय नमः।
ॐ शान्तजनप्रियाय नमः।
ॐ बटुकाय नमः।
ॐ बहुवेषाय नमः।
ॐ खट्वाङ्गवरधारकाय नमः।
ॐ भूताध्यक्षाय नमः।
ॐ पशुपतये नमः।
ॐ भिक्षुकाय नमः।
ॐ परिचारकाय नमः।
ॐ धूर्ताय नमः।
ॐ दिगम्बराय नमः।
ॐ शौरिणे नमः।
ॐ हरिणाय नमः।
ॐ पाण्डुलोचनाय नमः।
ॐ प्रशान्ताय नमः।
ॐ शान्तिदाय नमः।
ॐ सिद्धाय नमः।
ॐ शङ्करप्रियबान्धवाय नमः।
ॐ अष्टमूर्तये नमः।
ॐ निधीशाय नमः।
ॐ ज्ञानचक्षुषे नमः।
ॐ तपोमयाय नमः।
ॐ अष्टाधाराय नमः।
ॐ षडाधाराय नमः।
ॐ सर्पयुक्ताय नमः।
ॐ शिखीसख्ये नमः।
ॐ भूधराय नमः।
ॐ भूधराधीशाय नमः।
ॐ भूपतये नमः।
ॐ भूधरात्मजाय नमः।
ॐ कङ्कालधारिणे नमः।
ॐ मुण्डिने नमः।
ॐ नागयज्ञोपवीतकाय नमः।
ॐ जृम्भणाय नमः।
ॐ मोहनाय नमः।
ॐ स्तम्भिने नमः।
ॐ मारणाय नमः।
ॐ क्षोभणाय नमः।
ॐ शुद्धाय नमः।
ॐ नीलाञ्जनप्रख्याय नमः।
ॐ दैत्यघ्ने नमः।
ॐ मुण्डभूषिताय नमः।
ॐ बलिभुजे नमः।
ॐ बलिभुङ्नाथाय नमः।
ॐ बालाय नमः।
ॐ बालपराक्रमाय नमः।
ॐ सर्वापत्तारणाय नमः।
ॐ दुर्गाय नमः।
ॐ दुष्टभूतनिषेविताय नमः।
ॐ कामिने नमः।
ॐ कलानिधये नमः।
ॐ कान्ताय नमः।
ॐ कामिनीवशकृद्वशिने नमः।
ॐ सर्वसिद्धिप्रदाय नमः।
ॐ वैद्याय नमः।
ॐ प्रभवे नमः।
ॐ विष्णवे नमः।
नमो भैरव भीम, भीषण कृपालम ।
नमो वक्रतुण्ड, बटुकनाथ दयालं ॥
नमो त्रैल तेराम, नमो प्रेतनाथम ।
नमो चंद्रशेखर, द्विपै चंद्र भालम ॥
नमो रुद्र अमरेश, नकुलेश स्वामी ।
नमो विश्व भूतेश, जौमेष व्यालम् ॥
दिगम्बर आडम्बर नमो ताप मोचन ।
त्रिलोचन विमोचन, गले मुंड मालम ॥
नमो क्षेत्रपालं, महाकाल कालम् ।
नमो भीम लोचन, भुजंगी विशालम् ॥
नमो चक्रपाणि, करण लम्ब उन्नत ।
नमो शिव कपिल, विक्राल चालम ॥
नमो सुन्दरानंद, आनन्द कन्दम् ।
नमो उमानाथ नमो काशी कोतवालम ॥
नमो अम्बनाथं, नमो प्रेतनाथं ।
नमो जगन्नाथ नाथं, नमो चक्र नाथम् ॥
नमो भूतनाथं, नमो वैधनाथम् ।
नमो सुवन विशवनाथं, कृपानाथ नाथम् ॥
नमो नाथ आशुतोष, क्रोधेश मंजुल ।
नमो क्रोध वक्ऋ, त्रयम्बक भुजालम ॥
नमो नाथ दशपाणि, कृत्यायु वामन ।
नमो नाथ अस्तुति करत भैरव भक्तं ॥
ॐ भैरवाय नमः ।
यं यं यं यक्षरूपं दशदिशि विदितं भूमि कम्पायमानं ।
सं सं संहारमूर्तिं शिरमुकुटजटा शेखरं चन्द्रबिम्बम् ॥
दं दं दं दीर्घ कायं विकृतनख मुखं तु ऊर्ध्वरोमं करालं ।
पं पं पं पापनाशं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ १॥
रं रं रं रक्तवर्णं कटकटित तनुं तीक्ष्णदंष्ट्रा करालं ।
घं घं घं घोष घोषं घ घ घ घ घटितं घर्घरं घोरनादम् ॥
कं कं कं कालपाशं धृकधृकधृकितं ज्वालितं कामदाहं ।
तं तं तं दिव्यदेहं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ २॥
लं लं लं वदन्तं ल ल ल ल ललितं दीर्घ जिह्वा करालं ।
धुं धुं धुं धूम्रवर्णं स्फुट विकट मुखं भास्करं भीमरूपम् ॥
रुं रुं रुं रूण्डमालं रवितम नियतं ताम्रनेत्रं करालम् ।
नं नं नं नग्नरूपं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ३॥
वं वं वं वायुवेगं नतजन दमिनं ब्रह्मवारः परं तं ।
खं खं खं खड्ग हस्तं त्रिभुवन निलयं भास्करं भीमरूपम् ॥
चं चं चं चलित्वा चल चल चलितं चालितं भूमिचक्रं ।
मं मं मं मायि रूपं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ४॥
शं शं शं शंख हस्तं शशिकरधवलं मोक्ष सम्पूर्ण तेजं ।
मं मं मं महान्तं कुलं अकुलं मन्त्रगुप्तं सुनित्यम् ॥
यं यं यं भूतनाथं किलकिल किलितं बालकेलिप्रधानं ।
अं अं अं अन्तरिक्षं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ५॥
खं खं खं खड्गभेदं विषं अमृतमयं कालकालं करालं ।
क्षं क्षं क्षं क्षप्रिवेगं दहदह दहनं तप्त सन्दीप्यमानम् ॥
हौं हौं हौंकार नादं प्रकटित ग्रहनं गर्जितैः र्भूमिकम्पं ।
बं बं बं बाललीलं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ६॥
सं सं सं सिद्धियोगं सकल गुणधनं देवदेवं प्रसन्नं ।
पं पं पं पद्मनाभं हरिहर नयनं चन्द्र सूर्याग्नि नेत्रम् ॥
ऐं ऐं ऐं ऐश्वर्यनाथं सतत भयहरं पूर्वदेवस्वरूपं ।
रौं रौं रौं रौद्ररूपं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ७॥
हं हं हं हंसहासं हसितकलहकं मुक्त योग अट्टहासं ।
धं धं धं क्षेत्र रूपं शिरमुकुट जटा बन्ध बन्धाग्र हस्तम् ॥
टं टं टं टंङ्कार नाथं त्रिदश लटलटं कामगर्वापहारं ।
भृं भृं भृं भूतनाथं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ८॥
इत्येवं कामयुक्तं प्रपठित नियतं चाष्टकं भैरवस्य ।
निर्विघ्नं दुखनाशं सुरभयहरणं डाकिनी शाकिनीनाम् ॥
नश्येद्धि व्याघ्रसर्प वहवह सिलले राजदंडस्य शून्यं ।
सर्वा नश्यन्ति दूरं विपदइति भृंशं चिन्तनात् सर्व सिद्धम् ॥९॥
भैरवस्य अष्टकम् इदं षड्मासं यः पठेत नरः ।
स याति परमं स्थानं यत्र देवो महेश्वरः॥
सिन्दूर अरुण गात्रंच सर्वजन्म विनिर्मितम् ।
मुकुटाग्र च घरं देवं भैरवं प्रणमामि अहम् ॥१०॥
ॐ भैरवाय नमः ।
॥ इति श्री तीक्ष्ण दंष्ट्र काल भैरवाष्टकं संपूर्णम् ॥
ॐ जय भैरव देवा, प्रभु, जय भैरव देवा।
सुरनर मुनि सब करते, प्रभु तुम्हारी सेवा ।।ॐ जय ।।
तुम्हीं पाप उद्धारक, दुःख सिन्धु तारक।
भक्तों के सुख कारक, भीषण वपु धारक ।। ॐ जय० ।।
वाहन श्वान विराजत, कर त्रिशूलधारी।
महिमा अमित तुम्हारी जय जय भयहारी || ॐ जय० ।।
तुम बिन शिव की सेवा, सफल नहीं होवे।
चतुर्वर्तिका दीपक, दर्शन दुःख खोवे ।। ॐ जय० ।।
तेल चटक दधिमिश्रित माषावली तेरी।
कृपा कीजिए, भैरव, करो नहीं देरी।। ॐ जय० ।।
पांव घूंघरू बाजत, डमरू डमकावत।
बटुकनाथ बन बालक, जन मन हरषावत ।। ॐ जय ||
श्री भैरव जी की आरती, जो कोई नर गावे ।
सो नर जग में निश्चय, मनवांछित फल पावे || ॐ जय० ।।
दोहाः - हमारी भी सुन प्रार्थना, मेटो सारे क्लेश। इच्छा पूरी सब करो, जय जय जय भूतेश।।
हमें भरोसा आपका, तुम देवी के लाल।
इस धरणी पर भक्त को, करदो निहाल ।।
आवाहनं न जानामि न जानामि विसर्जनं
पूजां च एव न जानामि क्षम्यतां परमेश्वरः ।१।
मंत्रहीनं क्रिया हीनं भक्तिहीनं सुरेश्वरः
यत् पूजितं मया देव, परिपूर्णम् तदस्तु मे I २ l
यत् अक्षरं पदं भ्रष्टं मात्राहीनं च यत् भवेत्
तत् सर्वम् क्षम्यतां देव ! प्रसीद परमेश्वरः ।३।
अस्मत् समा पातकी न अस्ति, पापघ्ना त्वत् समा न हि एवं ज्ञात्वा भैरव ! यथा योग्यं तथा कुरु ।४।
प्रदक्षिणाः- ( मन्दिर का सात वार चक्कर लगायें या अपने ही स्थान पर खडे होकर सात वार घूमें )
यानि कानि च पापानि जन्म जन्मान्तर कृतानि च । तानि सर्वाणि नश्यन्तु प्रदक्षिणां पदे पदे